वराहपुराणे वर्णितपौराणिकधर्मानुसारेण भक्तितत्त्वम् (सामाजिकी जीवनचर्चा च)
Abstract
पुराणशब्दस्य व्युत्पत्तिगतार्थः भवति प्राचीनकाहिनी । प्राचीनपुराणेषु प्रदत्तसंज्ञानुसारं पुराणं भवति पुराकालस्य विवरणम् । यद्यपि पुराकाले तथा च अतीतकाले एतादृशी घटना अभूत् तस्मात् एतदर्थं नाम भवति पुराणम् । यतो हि प्राचीनमत्स्यपुराणे समुल्लिखितमस्ति यत् “पुराणस्य कल्पस्य पुराणानि विदुर्वुधाः”[1]। ‘पुराण’ शब्दः विशेषार्थे व्यवह्रयते । पुराणं भवति विशेषवैशिष्ट्यपूर्णः एकः धर्मग्रन्थः । वराहपुराणे वर्णितं पौराणिकधर्मानुसारं भक्तितत्त्वम् - एष विषयः वैष्णवागमे अतीव महत्वपूर्णः। वराहपुराणे भगवान् विष्णोः वराहावतारस्य माहात्म्यं प्रधानतया वर्ण्यते, तथापि तत्र भक्तेः स्वरूपं, प्रकाराः, श्रेष्ठता च विषदतया निरूपितानि सन्ति। पौराणिकधर्मे भक्तिः केवलं उपासना न, अपितु मोक्षप्रदं महान् साधनमार्गः इति तत्र प्रतिपाद्यते। पुराणशब्दस्यार्थः भवति प्राचीनकथा प्राचीनकाहिनी च । पुराण इत्युक्ते इतिहासमपि अववोध्यते । किन्तु इतिहासं पुराणञ्च सम्पूर्णं भिन्नं भवति । यतो हि इतिहासं भवति अतीतकालस्य घटना । अपरञ्च पुराणं भवति सुदीर्घभूतकालस्य घटना । इतिहासशब्दस्य व्युत्पत्तिगतार्थः इति आस् एवमपि आसीत् ।
Downloads
Downloads
Published
How to Cite
Issue
Section
License

This work is licensed under a Creative Commons Attribution-NonCommercial 4.0 International License.